४.१२.२५

तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम् ।
ह्रीमान्दीनमुवाचेदं वसुधामवलोकयन् ॥

अन्वयः

सुग्रीवः Sugriva, आगतम् coming in, सहलक्ष्मणम् along with Lakshmana, तं रामम् that Rama, दृष्ट्वा seeing, ह्रीमान् ashamed, वसुधाम् ground, अवलोकयन् looking down , दीनम् piteously, इदम् this, उवाच spoke.

M N Dutt

Beholding Rāma approach with Lakşmaņa, Sugrīva, stricken with shame and casting his looks on the earth, addressed him poorly, with the following words.

Summary

At the sight of Rama accompanied by Lakshmana, Sugriva felt ashmed and aggrieved, and looking down on the ground, said:

पदच्छेदः

तंतद् (२.१)
समीक्ष्यागतंसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)–आगत (√आ-गम् + क्त, २.१)
रामंराम (२.१)
सुग्रीवःसुग्रीव (१.१)
सहलक्ष्मणम्सहलक्ष्मण (२.१)
ह्रीमान्ह्रीमत् (१.१)
दीनम्दीन (२.१)
उवाचेदंउवाच (√वच् लिट् प्र.पु. एक.)–इदम् (२.१)
वसुधाम्वसुधा (२.१)
अवलोकयन्अवलोकयत् (√अव-लोकय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं मी क्ष्या तं रा मं
सु ग्री वःक्ष्म णम्
ह्री मा न्दीमु वा चे दं
सु धा लो यन्