४.१३.२७

ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात् ।
ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥

अन्वयः

ते they, तस्मात् from there, सप्तजनाश्रमात् the hermitage of seven seers, दूरम् long distance, अध्वानम् path, गत्वा on going, वालिपालिताम् ruled by Vali, दुराधर्षाम् unassailable, तां किष्किन्धाम् that Kishkinda, ददृशुः beheld

M N Dutt

And wending a distant way from that hermitage of the seven great ones, they beheld Kişkindhä, hard to conquer and occupied by Vali.

Summary

Walking a long distance from the hermitage of the seven seers, they beheld the unassailable Kishkinda ruled by Vali.

पदच्छेदः

तेतद् (१.३)
गत्वागत्वा (√गम् + क्त्वा)
दूरम्दूर (२.१)
अध्वानंअध्वन् (२.१)
तस्मात्तद् (५.१)
सप्तजनाश्रमात्सप्तजन–आश्रम (५.१)
ददृशुस्ददृशुः (√दृश् लिट् प्र.पु. बहु.)
तांतद् (२.१)
दुराधर्षांदुराधर्ष (२.१)
किष्किन्धांकिष्किन्धा (२.१)
वालिपालिताम्वालिन्–पालित (√पालय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते त्वा दू ध्वा नं
स्मा त्सप्त नाश्र मात्
दृ शु स्तांदु रा र्षां
कि ष्कि न्धां वालि पालि ताम्