४.१४.१३

अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता ।
धर्मलोभपरीतेन न च वक्ष्ये कथंचन ॥

अन्वयः

वीर hero, कृच्छ्रे in distress, तिष्ठतापि although subjected, धर्मलोभपरीतेन with the fear of deviating from righteousness, मे from me, अनृतम् a lie, उक्तपूर्वम् earlier, कथञ्चन in any way, न वक्ष्ये I will not speak.

Summary

'O Sugriva, I have uttered no falsehood before for fear of deviation from righteousness although I was in distress, nor shall I utter any falsehood in any circumstances hereafter.

पदच्छेदः

अनृतंअनृत (१.१)
नोक्तपूर्वं (अव्ययः)–उक्त (√वच् + क्त)–पूर्व (१.१)
मेमद् (६.१)
वीरवीर (८.१)
कृच्छ्रेकृच्छ्र (७.१)
ऽपिअपि (अव्ययः)
तिष्ठतातिष्ठत् (√स्था + शतृ, ३.१)
धर्मलोभपरीतेनधर्म–लोभ–परीत (√परि-इ + क्त, ३.१)
(अव्ययः)
(अव्ययः)
वक्ष्येवक्ष्ये (√वच् लृट् उ.पु. )
कथंचनकथंचन (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नृ तं नोक्त पू र्वं मे
वी कृ च्छ्रेऽपि तिष्ठ ता
र्म लो री ते
क्ष्ये थं