४.१५.१०

त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥

अन्वयः

त्वया by you, निरस्तस्य defeated by you, विशेषतः specially, पीडितस्य hurt by you, तस्य his, इह here, पुनः again, एत्य after coming, आह्वानम् inviting you, मे to me, शङ्काम् suspicion, जनयतीव arouses.

M N Dutt

That one, who had been defeated and harassed by you formerly, is now calling you. Indeed it has excited my fear.

Summary

'One who is defeated and badly mauled by you is again coming and inviting you to a duel in this manner arouses suspicion in me.

पदच्छेदः

त्वयात्वद् (३.१)
तस्यतद् (६.१)
निरस्तस्यनिरस्त (√निः-अस् + क्त, ६.१)
पीडितस्यपीडित (√पीडय् + क्त, ६.१)
विशेषतःविशेषतः (अव्ययः)
इहैत्यइह (अव्ययः)–एत्य (√आ-इ + ल्यप्)
पुनर्पुनर् (अव्ययः)
आह्वानंआह्वान (१.१)
शङ्कांशङ्का (२.१)
जनयतीवजनयति (√जनय् लट् प्र.पु. एक.)–इव (अव्ययः)
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्व यास्यनि स्तस्य
पीडिस्यवि शे तः
हैत्यपु रा ह्वा नं
ङ्कां ती मे