४.१५.१३

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।
अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति ॥

अन्वयः

प्रकृत्या निपुणश्चैव naturally a clever, बुद्धिमांश्चैव wise person, वानरः monkey, सुग्रीवः Sugriva, अपरीक्षितवीर्येण without testing the ability of the ally, सख्यम् friendship न एष्यति will not make

M N Dutt

That monkey is clever by nature and gifted with intellect. And Sugrīva shall not desire friendship with any one without having a test of his prowess.

Summary

'Sugriva is clever by nature. He is wise. Without assessing the ability of the ally he will not enter into friendship.

पदच्छेदः

प्रकृत्याप्रकृति (३.१)
निपुणश्निपुण (१.१)
चैव (अव्ययः)–एव (अव्ययः)
बुद्धिमांश्बुद्धिमत् (१.१)
चैव (अव्ययः)–एव (अव्ययः)
वानरःवानर (१.१)
अपरीक्षितवीर्येणअपरीक्षित–वीर्य (३.१)
सुग्रीवःसुग्रीव (१.१)
सहसह (अव्ययः)
नैष्यति (अव्ययः)–एष्यति (√इ लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र कृ त्यानिपु श्चै
बुद्धि मां श्चै वा रः
रीक्षि वी र्ये
सु ग्री वः नैष्यति