४.१५.२

श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥

अन्वयः

तस्य his, सर्वभूतप्रकम्पनम् that shook all creatures, निनदम् roar, श्रुत्वा having heard, एकपदे at once, मदः च vanity नष्टः lost, महान् violent, क्रोधः rage, आपादितश्च was aroused

M N Dutt

And hearing that mighty roar, shaking the whole world of creation, his pride was in no time, crushed and he attained to an excess of ire.

Summary

The roar (of Sugriva) that frightened all beings gave Vali's vanity a jolt and at once aroused in him violent rage.

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
तस्यतद् (६.१)
निनदंनिनद (२.१)
सर्वभूतप्रकम्पनम्सर्व–भूत–प्रकम्पन (२.१)
मदश्मद (१.१)
चैकपदे (अव्ययः)–एकपद (७.१)
नष्टःनष्ट (√नश् + क्त, १.१)
क्रोधश्क्रोध (१.१)
चापतितो (अव्ययः)–आपतित (√आ-पत् + क्त, १.१)
महान्महत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातुस्यनि दं
र्व भूप्रम्प नम्
श्चै दे ष्टः
क्रो श्चाति तो हान्