४.१६.२०

ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः ।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥

अन्वयः

वेगितः speedily, समभिक्रम्य encountered him, तेन by him, ताडितः struck, सङ्कृद्धः enraged, शोणितोद्गारी rivulets of blood, सोत्पेडः flowing, पर्वतः इव like a mountain, अभवत् appeared

M N Dutt

Thereupon being struck by Vāli, waxing worth and approaching him quickly he began to vomit out gore like to a mountain having springs.

Summary

Struck by Vali, enraged Sugriva encountered Vali more aggresively. His body drenched in blood seemed a mountain with rivulets of blood flowing.

पदच्छेदः

ताडितस्ताडित (√ताडय् + क्त, १.१)
तेनतद् (३.१)
संक्रुद्धःसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
समभिक्रम्यसमभिक्रम्य (√समभि-क्रम् + ल्यप्)
वेगतःवेग (५.१)
अभवच्अभवत् (√भू लङ् प्र.पु. एक.)
छोणितोद्गारीशोणित–उद्गारिन् (१.१)
सोत्पीड (अव्ययः)–उत्पीड (१.१)
इवइव (अव्ययः)
पर्वतःपर्वत (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ताडि स्ते सं क्रु द्धः
भि क्रम्य वे तः
च्छोणि तो द्गा री
सो त्पीर्व तः