४.१६.८

शापितासि मम प्राणैर्निवर्तस्व जयेन च ।
अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे ॥

अन्वयः

मम my, प्राणैः with life, शापिता अपि even a vow on my life, जयेन on victory, निवर्तस्व I will return, अहम् I, रणे in encounter, तं भ्रातरम् that brother, जित्वा after winning, अहम् I, निवर्तिष्ये will return

M N Dutt

By my life, do you go back with the other members of my household, I shall only return after bringing about the discomfiture of my brother in the battle.

Summary

'I make a vow even on my life and my victory. Pray return with the retinue. I will be back only after winning the encounter with my brother.

पदच्छेदः

शापितासिशापितासि (√शप् लुट् म.पु. )
मममद् (६.१)
प्राणैर्प्राण (३.३)
निवर्तस्वनिवर्तस्व (√नि-वृत् लोट् म.पु. )
जयेनजय (३.१)
(अव्ययः)
अहंमद् (१.१)
जित्वाजित्वा (√जि + क्त्वा)
निवर्तिष्येनिवर्तिष्ये (√नि-वृत् लृट् उ.पु. )
तम्तद् (२.१)
अलंअलम् (अव्ययः)
भ्रातरंभ्रातृ (२.१)
रणेरण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शापि तासि प्रा णै
र्नि र्तस्व ये
हं जि त्वानि र्ति ष्ये
लं भ्रा रं णे