४.१७.४

भूमौ निपतितस्यापि तस्य देहं महात्मनः ।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥

अन्वयः

भूमौ on the ground, निपतितस्यापि even though fell down, महात्मनः highsouled, तस्य it, देहम् body, श्रीः splendour, न जहाति not left, प्राणाः life, न not, तेजः glow, न not, पराक्रमः valour

M N Dutt

Though struck down to the earth, neither vitality, effulgence nor prowess did renounce the body of that high-souled one.

Summary

Even though the highsouled Vali's body had fallen on the ground, its splendour, glow, life and valour had not left it.

पदच्छेदः

भूमौभूमि (७.१)
निपतितस्यापिनिपतित (√नि-पत् + क्त, ६.१)–अपि (अव्ययः)
तस्यतद् (६.१)
देहंदेह (१.१)
महात्मनःमहात्मन् (६.१)
(अव्ययः)
श्रीर्श्री (१.१)
जहातिजहाति (√हा लट् प्र.पु. एक.)
(अव्ययः)
प्राणाप्राण (१.३)
(अव्ययः)
तेजोतेजस् (१.१)
(अव्ययः)
पराक्रमःपराक्रम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भू मौनिति स्यापि
स्य दे हं हात्म नः
श्रीर्ज हाति प्रा णा
ते जो राक्र मः