४.१७.४५

इत्येवमुक्त्वा परिशुष्कवक्त्रः; शराभिघाताद्व्यथितो महात्मा ।
समीक्ष्य रामं रविसंनिकाशं; तूष्णीं बभूवामरराजसूनुः ॥

M N Dutt

Having said this, that high-souled Son of monkey-chief, greatly distressed being wounded by (Rāma's) shaft and having his countenance dried up, became silent, fixing his look upon Rāma, resembling the sun.

पदच्छेदः

इत्य्इति (अव्ययः)
एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
परिशुष्कवक्त्रःपरिशुष्क–वक्त्र (१.१)
शराभिघाताद्शर–अभिघात (५.१)
व्यथितोव्यथित (√व्यथ् + क्त, १.१)
महात्मामहात्मन् (१.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
रामंराम (२.१)
रविसंनिकाशंरवि–संनिकाश (२.१)
तूष्णींतूष्णीम् (अव्ययः)
बभूवामरराजसूनुःबभूव (√भू लिट् प्र.पु. एक.)–अमर–राजन्–सूनु (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
त्ये मु क्त्वारि शुष्क क्त्रः
राभि घा ताद्व्यथि तो हा त्मा
मीक्ष्य रा मंवि संनि का शं
तू ष्णीं भू वा रा सू नुः