४.१८.२०

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।
भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥

अन्वयः

वानर monkey, तत् thus, धर्मात् from morality, व्यतीतस्य trespassing, कामवृत्तस्य for sensual pleasure, ते to you, अस्मिन् भ्रातृभार्यावमर्शे sinning against brother's wife, अयम् this, दण्डः punishment, प्रतिपादितः was justified.

M N Dutt

O monkey, you had thus violated the path of virtue. And thus I have punished you who have ravished your elder brother's spouse.

Summary

'O monkey since you have violated morality by sinning against your brother's wife this punishment is justified.

पदच्छेदः

तद्तद् (१.१)
व्यतीतस्यव्यतीत (√व्यति-इ + क्त, ६.१)
तेत्वद् (६.१)
धर्मात्धर्म (५.१)
कामवृत्तस्यकाम–वृत्त (√वृत् + क्त, ६.१)
वानरवानर (८.१)
भ्रातृभार्याभिमर्शेभ्रातृ–भार्या–अभिमर्श (७.१)
ऽस्मिन्इदम् (७.१)
दण्डोदण्ड (१.१)
ऽयंइदम् (१.१)
प्रतिपादितःप्रतिपादित (√प्रति-पादय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्व्य तीस्य ते र्मा
त्का वृ त्तस्य वा
भ्रातृ भा र्याभि र्शेऽस्मि
न्द ण्डो ऽयंप्रति पादि तः