४.१८.२५

वयं तु भरतादेशं विधिं कृत्वा हरीश्वर ।
त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः ॥

अन्वयः

हरीश्वर lord of monkeys, वयं तु we too, भरतादेशम् by Bharata's command, विधिम् following his command, कृत्वा do, भिन्नमर्यादान् deviated from the bounds of dharma, त्वद्विधान् this way, नियन्तुम् to punish, पर्यवस्थिताः determined.

Summary

'O Vali we have to follow Bharata's command and are bent upon punishing those wicked people who deviate from the bounds of dharma.

पदच्छेदः

वयंमद् (१.३)
तुतु (अव्ययः)
भरतादेशंभरत–आदेश (२.१)
विधिंविधि (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
हरीश्वरहरि–ईश्वर (८.१)
त्वद्विधान्त्वद्विध (२.३)
भिन्नमर्यादान्भिन्न (√भिद् + क्त)–मर्यादा (२.३)
नियन्तुंनियन्तुम् (√नि-यम् + तुमुन्)
पर्यवस्थिताःपर्यवस्थित (√पर्यव-स्था + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यंतु ता दे शं
वि धिं कृ त्वा रीश्व
त्वद्वि धा न्भिन्न र्या दा
न्नि न्तुंर्यस्थि ताः