४.१८.४१

यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ।
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥

पदच्छेदः

यत्यद् (२.१)
त्वम्त्वद् (१.१)
आत्थआत्थ (√अह् लिट् म.पु. )
नरश्रेष्ठनर–श्रेष्ठ (८.१)
तद्तद् (१.१)
एवंएवम् (अव्ययः)
नात्र (अव्ययः)–अत्र (अव्ययः)
संशयःसंशय (१.१)
प्रतिवक्तुंप्रतिवक्तुम् (√प्रति-वच् + तुमुन्)
प्रकृष्टेप्रकृष्ट (√प्र-कृष् + क्त, ७.१)
हिहि (अव्ययः)
नापकृष्टस् (अव्ययः)–अपकृष्ट (√अप-कृष् + क्त, १.१)
तुतु (अव्ययः)
शक्नुयात्शक्नुयात् (√शक् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्त्व मात्थ श्रेष्ठ
दे वं नात्र सं यः
प्रति क्तुंप्र कृ ष्टेहि
ना कृ ष्टस्तुक्नु यात्