४.१९.१८

पुत्रेण मम किं कार्यं किं राज्येन किमात्मना ।
कपिसिंहे महाभागे तस्मिन्भर्तरि नश्यति ॥

अन्वयः

कपिसिंहे lion among monkeys, महाभागे glorious, तस्मिन् him, नश्यति सति he is dying, मम to me, पुत्रेण by my son, किं कार्यम् what use, राज्येन (अपि) च even with the kingdom, आत्मना with my own life, किम् what purpose?

M N Dutt

That great lord of monkeys, my husband, being dead, what shall I do with my son, my kingdom and myself?

Summary

'Now that the glorious Vali, a lion among monkeys, my husband is dying, of what purpose is the son, or the kingdom or my own life?

पदच्छेदः

पुत्रेणपुत्र (३.१)
मममद् (६.१)
किं (१.१)
कार्यंकार्य (√कृ + कृत्, १.१)
किं (१.१)
राज्येनराज्य (३.१)
किम् (१.१)
आत्मनाआत्मन् (३.१)
कपिसिंहेकपि–सिंह (७.१)
महाभागेमहाभाग (७.१)
तस्मिन्तद् (७.१)
भर्तरिभर्तृ (७.१)
नश्यतिनश्यत् (√नश् + शतृ, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु त्रे किं का र्यं
किं रा ज्येकि मात्म ना
पि सिं हे हा भा गे
स्मि न्भर्तरिश्यति