४.१९.२

अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम् ।
रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः ॥

अन्वयः

अश्मभिः with stones, प्रविभिन्नाङ्गः limbs battreed, पादपैः with trees, भृशम् very much, आहतः hit, रामबाणेन च by Rama's arrow, आक्रान्तः attacked, सः he, जीवितान्ते end of life, मुमोह lost consciousness.

M N Dutt

Having his limbs dissevered by stones, being struck with trees and wounded by Rama's shaft, he became senseless at the approach of death.

Summary

Severely battered by stones, hit by trees and pierced by Rama's arrow, Vali lost consciousness as the end of his life was nearing.

पदच्छेदः

अश्मभिःअश्मन् (३.३)
परिभिन्नाङ्गःपरिभिन्न (√परि-भिद् + क्त)–अङ्ग (१.१)
पादपैर्पादप (३.३)
आहतोआहत (√आ-हन् + क्त, १.१)
भृशम्भृशम् (अव्ययः)
रामबाणेनराम–बाण (३.१)
चाक्रान्तो (अव्ययः)–आक्रान्त (√आ-क्रम् + क्त, १.१)
जीवितान्तेजीवितान्त (७.१)
मुमोहमुमोह (√मुह् लिट् प्र.पु. एक.)
सःतद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्म भिःरि भि न्ना ङ्गः
पा पै रा तोभृ शम्
रा बा णे चा क्रा न्तो
जीवि ता न्तेमु मो सः