४.१९.२४

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम् ।
अर्चितं सर्वलोकस्य सपताकं सवेदिकम् ॥

पदच्छेदः

शार्दूलेनामिषस्यार्थेशार्दूल (३.१)–आमिष (६.१)–अर्थ (७.१)
मृगराजंमृग–राज् (२.१)
यथायथा (अव्ययः)
हतम्हत (√हन् + क्त, २.१)
अर्चितंअर्चित (√अर्चय् + क्त, २.१)
सर्वलोकस्यसर्व–लोक (६.१)
सपताकं (अव्ययः)–पताका (२.१)
सवेदिकम् (अव्ययः)–वेदिका (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शा र्दू ले नामि स्या र्थे
मृ रा जं था तम्
र्चि तंर्व लोस्य
ता कं वेदि कम्