४.१९.२७

समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह ।
सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती ॥

पदच्छेदः

समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
व्यथिताव्यथित (√व्यथ् + क्त, १.१)
भूमौभूमि (७.१)
संभ्रान्तासंभ्रान्त (√सम्-भ्रम् + क्त, १.१)
निपपातनिपपात (√नि-पत् लिट् प्र.पु. एक.)
(अव्ययः)
सुप्तेवसुप्त (√स्वप् + क्त, १.१)–इव (अव्ययः)
पुनर्पुनर् (अव्ययः)
उत्थायउत्थाय (√उत्-स्था + ल्यप्)
आर्यपुत्रेतिआर्य–पुत्र (८.१)–इति (अव्ययः)
क्रोशतीक्रोशत् (√क्रुश् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मी क्ष्यव्यथि ता भू मौ
सं भ्रा न्तानि पा
सु प्तेपु रु त्था
र्य पु त्रे ति क्रो ती