४.१९.२८

रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः ।
तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव ॥

पदच्छेदः

रुरोदरुरोद (√रुद् लिट् प्र.पु. एक.)
सातद् (१.१)
पतिंपति (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
संदितंसंदित (√सम्-दा + क्त, २.१)
मृत्युदामभिःमृत्यु–दामन् (३.३)
ताम्तद् (२.१)
अवेक्ष्यअवेक्ष्य (√अव-ईक्ष् + ल्यप्)
तुतु (अव्ययः)
सुग्रीवःसुग्रीव (१.१)
क्रोशन्तींक्रोशत् (√क्रुश् + शतृ, २.१)
कुररीम्कुररी (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु रो सा तिं दृ ष्ट्वा
संदि तं मृत्यु दा भिः
ता वेक्ष्यतु सु ग्री वः
क्रो न्तींकु रीमि