४.२.१

तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।
वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥

अन्वयः

वरायुधधरौ wielders of best of weapons, वीरौ heroes, महात्मानौ great souls, भ्रातरौ the two brothers, तौ रामलक्ष्मणौ Rama and Lakshmana, दृष्ट्वा seeing, सुग्रीवः Sugriva, शङ्कितः doubtful, अभूत् became

M N Dutt

Beholding those two high-souled brothers Rāma and Lakşmaņa, heroic and with great scimitars in their hands, Sugrīva became terrified.

Summary

On seeing the two great souls, heroic Rama and Lakshmana wielding the best of weapons, Sugriva was alarmed.

पदच्छेदः

तौतद् (२.२)
तुतु (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
महात्मानौमहात्मन् (२.२)
भ्रातरौभ्रातृ (२.२)
रामलक्ष्मणौराम–लक्ष्मण (२.२)
वरायुधधरौवर–आयुध–धर (२.२)
वीरौवीर (२.२)
सुग्रीवःसुग्रीव (१.१)
शङ्कितोशङ्कित (√शङ्क् + क्त, १.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तौतु दृ ष्ट्वा हा त्मा नौ
भ्रा रौ राक्ष्म णौ
रायु रौ वी रौ
सु ग्री वःङ्कि तोऽभ वत्