४.२.११

आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम् ।
मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा ॥

अन्वयः

हरिवराः the great monkeys, तम् them, महागिरिम् great mountain, सर्वतः all over, आप्लवन्तः jumping, तदा then, मृगमार्जारशार्दूलान् deer, wild cats and tigers, त्रासयन्तः scaring, ययुः went

M N Dutt

Those best of monkeys, springing all around that mighty hill, proceeded terrifying the deer, the wild cats and the tigers.

Summary

The great monkeys went on leaping all over the great (Rishyamuka) mountain, scaring the deer, wildcats and tigers.

पदच्छेदः

आप्लवन्तोआप्लवत् (√आ-प्लु + शतृ, १.३)
हरिवराःहरि–वर (१.३)
सर्वतस्सर्वतस् (अव्ययः)
तंतद् (२.१)
महागिरिम्महत्–गिरि (२.१)
मृगमार्जारशार्दूलांस्मृग–मार्जार–शार्दूल (२.३)
त्रासयन्तोत्रासयत् (√त्रासय् + शतृ, १.३)
ययुस्ययुः (√या लिट् प्र.पु. बहु.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्ल न्तोरि राः
र्व स्तं हागि रिम्
मृ मा र्जा शा र्दू लां
स्त्रा न्तो युस्त दा