४.२.१२

ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः ।
संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः ॥

अन्वयः

ततः thereafter, सर्वे all, सुग्रीवसचिवाः Sugriva's ministers, पर्वतेन्द्रं king of mountains (Rishyamuka), समाहिताः collected together, कपिमुख्येन with the chief of monkeys, सङ्गम्य after assembling, प्राञ्जलयः with folded palms in reverence, स्थिताः stood.

M N Dutt

Stationed on that best of mountains the ministers of Sugrīva, coming in the front of that monkey-chief, stood with clasped palms.

Summary

Thereafter, all the ministers of Sugriva assembled together on the king of mountains and stood (in front of Sugriva), with folded hands.

पदच्छेदः

ततःततस् (अव्ययः)
सुग्रीवसचिवाःसुग्रीव–सचिव (१.३)
पर्वतेन्द्रंपर्वत–इन्द्र (२.१)
समाश्रिताःसमाश्रित (√समा-श्रि + क्त, १.३)
संगम्यसंगम्य (√सम्-गम् + ल्यप्)
कपिमुख्येनकपि–मुख्य (३.१)
सर्वेसर्व (१.३)
प्राञ्जलयःप्राञ्जलि (१.३)
स्थिताःस्थित (√स्था + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सु ग्रीचि वाः
र्व ते न्द्रं माश्रि ताः
संम्यपि मु ख्ये
र्वे प्राञ्ज यःस्थि ताः