४.२.१३

ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम् ।
उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः ॥

अन्वयः

ततः then, वाक्यकोविदः eloquent in speech, हनुमान् Hanuman, भयसंविग्नं shaken with fear, वालिकिल्बिषशङ्कितम् suspecting that Vali might have sent, सुग्रीवम् Sugriva, वाक्यम् these words, उवाच spoke

M N Dutt

Thereupon Hanumān, skilled in speech, spoke to Sugrīva, terrified and afraid of Vāli's wicked wiles.

Summary

Suspecting that Vali might have sent them (Rama and Lakshmana), Hanuman, skilful in communication, said to Sugriva who was trembling in fear:

पदच्छेदः

ततस्ततस् (अव्ययः)
तंतद् (२.१)
भयसंत्रस्तंभय–संत्रस्त (√सम्-त्रस् + क्त, २.१)
वालिकिल्बिषशङ्कितम्वालिन्–किल्बिष–शङ्कित (√शङ्क् + क्त, २.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
हनुमान्हनुमन्त् (१.१)
वाक्यंवाक्य (२.१)
सुग्रीवंसुग्रीव (२.१)
वाक्यकोविदःवाक्य–कोविद (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तं सं त्र स्तं
वालि किल्बिङ्कि तम्
वानु मा न्वा क्यं
सु ग्री वं वाक्य कोवि दः