४.२.१७

बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर ।
न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि ॥

अन्वयः

बुद्धिविज्ञानसम्पन्नः one endowed with intelligence and knowledge, इङ्गितैः by gestures, सर्वम् everything, आचर you may do, अबुद्धिम् lack of intellect , गतः reaches, राजा king, सर्वभूतानि all beings, न शास्ति हि cannot control

M N Dutt

Gifted with intellect and knowledge do you perforin all by means of gestures. A king void of sense cannot govern all creatures.

पदच्छेदः

बुद्धिविज्ञानसम्पन्नबुद्धि–विज्ञान–सम्पन्न (√सम्-पद् + क्त, १.१)
इङ्गितैःइङ्गित (३.३)
सर्वम्सर्व (२.१)
आचरआचर (√आ-चर् लोट् म.पु. )
(अव्ययः)
ह्य्हि (अव्ययः)
अबुद्धिंअबुद्धि (२.१)
गतोगत (√गम् + क्त, १.१)
राजाराजन् (१.१)
सर्वभूतानिसर्व–भूत (२.३)
शास्तिशास्ति (√शास् लट् प्र.पु. एक.)
हिहि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बुद्धि वि ज्ञा संन्न
ङ्गि तैःर्व मा
ह्य बु द्धिं तो रा जा
र्व भू तानि शास्तिहि