४.२.२०

वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ ।
राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥

अन्वयः

पुरुषोत्तमौ two excellent men, वालिप्रणिहितौ एतौ have been sent by Vali, अहम् I, शङ्के doubt, राजानः kings, बहुमित्राः they have many friends, अत्र here, विश्वासः trust, न क्षमः not proper

M N Dutt

Methinks these two best of men have been despatched by Vali. Kings have many friends. And it is not proper for me to place confidence in them.

Summary

'I support these two excellent men might have been sent by Vali. Kings have many friends and so it may not be appropriate to trust any king.

पदच्छेदः

वालिप्रणिहिताव्वालिन्–प्रणिहित (√प्रणि-धा + क्त, २.२)
एतौएतद् (२.२)
शङ्केशङ्के (√शङ्क् लट् उ.पु. )
ऽहंमद् (१.१)
पुरुषोत्तमौपुरुष–उत्तम (२.२)
राजानोराजन् (१.३)
बहुमित्राश्बहु–मित्र (१.३)
(अव्ययः)
विश्वासोविश्वास (१.१)
नात्र (अव्ययः)–अत्र (अव्ययः)
हिहि (अव्ययः)
क्षमःक्षम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वा लिप्रणिहि ता वे तौ
ङ्के ऽहंपुरु षोत्त मौ
रा जा नोहु मि त्राश्च
वि श्वा सो नात्र हिक्ष मः