४.२.७

ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ ।
जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम् ॥

अन्वयः

ततः then, सुग्रीवसचिवाः Sugriva's counsellers, परमधन्विनौ supreme bowmen, दृष्ट्वा seeing, तस्मात् from that, गिरितटात् that mountain, उत्तमम् great, अन्यत् another, शिखरम् mountain peak, जग्मुः went

M N Dutt

Beholding these two mighty archers the counsellors of Sugriva, quitting that mountainous expanse proceeded to another best of hills.

Summary

On seeing these supreme bowmen, Sugriva's counsellers left for the peak of another mountain.

पदच्छेदः

ततःततस् (अव्ययः)
सुग्रीवसचिवासुग्रीव–सचिव (१.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
परमधन्विनौपरम–धन्विन् (२.२)
जग्मुर्जग्मुः (√गम् लिट् प्र.पु. बहु.)
गिरितटात्गिरि–तट (५.१)
तस्माद्तद् (५.१)
अन्यच्अन्य (२.१)
छिखरम्शिखर (२.१)
उत्तमम्उत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सु ग्रीचि वा
दृ ष्ट्वान्वि नौ
ग्मुर्गिरि टा त्त स्मा
न्यच्छि मुत्त मम्