४.२२.१७

इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात् ।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥

अन्वयः

वालिना by Vali, भ्रातृसौहृदात् due to brotherly affection, इत्येवम् thus, उक्तः spoken, सुग्रीवः Sugriva, हर्षम् happiness, त्यक्त्वा having given up , पुनः again, दीनः dull, ग्रहग्रस्तः eclipsed by planet Rahu, उडुराट् इव like the Moon.

M N Dutt

Having been accosted thus by Vāli, out of fraternal affection, Sugrīva renouncing joy again became pale like to the Moon possessed by Rahu.

Summary

Thus spoken to by Vali with brotherly affection, Sugriva gave up joy (of victory) and appeared dull like the Moon eclipsed by planet Rahu.

पदच्छेदः

इत्य्इति (अव्ययः)
एवम्एवम् (अव्ययः)
उक्तःउक्त (√वच् + क्त, १.१)
सुग्रीवोसुग्रीव (१.१)
वालिनावालिन् (३.१)
भ्रातृसौहृदात्भ्रातृ–सौहृद (५.१)
हर्षंहर्ष (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
पुनर्पुनर् (अव्ययः)
दीनोदीन (१.१)
ग्रहग्रस्तग्रह–ग्रस्त (√ग्रस् + क्त, १.१)
इवोडुराट्इव (अव्ययः)–उडुराज् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्ये मु क्तः सु ग्री वो
वालि ना भ्रातृ सौहृ दात्
र्षं त्य क्त्वापु र्दी नो
ग्र ग्रस्त वोडु राट्