४.२२.१८

तद्वालिवचनाच्छान्तः कुर्वन्युक्तमतन्द्रितः ।
जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥

अन्वयः

सः he, तद्वालिवचनात् by the words of Vali, शान्तः became composed, अतन्द्रितः without any illfeeling, युक्तम् proper, कुर्वन् carrying out, अभ्यनुज्ञातः with the permission, काञ्चनीम् golden, तां मालाम् that necklace, जग्राह received.

M N Dutt

Renouncing his inimical feelings, being thus addressed by Vāli and carrying out his words energetically Sugrīva accepted the golden garland as ordered (by him).

Summary

On hearing Vali's words, Sugriva became composed with no illfeeling. Considering it to be proper, he received with his permission the golden necklace.

पदच्छेदः

तद्तद् (२.१)
वालिवचनाच्वालिन्–वचन (५.१)
छान्तःशान्त (√शम् + क्त, १.१)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
युक्तम्युक्त (√युज् + क्त, २.१)
अतन्द्रितःअतन्द्रित (१.१)
जग्राहजग्राह (√ग्रह् लिट् प्र.पु. एक.)
सोतद् (१.१)
ऽभ्यनुज्ञातोअभ्यनुज्ञात (√अभ्यनु-ज्ञा + क्त, १.१)
मालांमाला (२.१)
तांतद् (२.१)
चैव (अव्ययः)–एव (अव्ययः)
काञ्चनीम्काञ्चन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्वालि ना च्छा न्तः
कु र्व न्युक्तन्द्रि तः
ग्रा सोऽभ्य नु ज्ञा तो
मा लां तां चै काञ्च नीम्