४.२२.२४

इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम् ।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥

अन्वयः

भृशम् intensely, शरसम्पीडितः formented by the arrow, इति thus, उक्त्वा having spoken, अथ then, विवृत्ताक्षः popping out his eyes, विवृतैः with opened, भीमैः with dreadful, दशनैः with teeth, उत्क्रान्तजीवितः dead, बभूव remained.

M N Dutt

After he had said this, his eyes became expanded, his teeth were opened and his appearance became ghastly. And greatly pained by shafts he breathed his last.

Summary

Having spoken this, tormented by the arrow, eyes popping out and his dreadful teeth ejected, Vali remained drained of life.

पदच्छेदः

इत्य्इति (अव्ययः)
उक्त्वाथउक्त्वा (√वच् + क्त्वा)–अथ (अव्ययः)
विवृत्ताक्षःविवृत्त (√वि-वृत् + क्त)–अक्ष (१.१)
शरसंपीडितोशर–संपीडित (√सम्-पीडय् + क्त, १.१)
भृशम्भृशम् (अव्ययः)
विवृतैर्विवृत (√वि-वृ + क्त, ३.३)
दशनैर्दशन (३.३)
भीमैर्भीम (३.३)
बभूवोत्क्रान्तजीवितःबभूव (√भू लिट् प्र.पु. एक.)–उत्क्रान्त (√उत्-क्रम् + क्त)–जीवित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्त्वावि वृ त्ता क्षः
सं पीडि तोभृ शम्
विवृ तैर्द नै र्भी मै
र्ब भू वो त्क्रान्त जीवि तः