४.२३.११

सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः ।
आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः ॥

अन्वयः

मम my, प्रकृत्या by nature, प्रियः dear, सुहृच्छैव a friend also, भर्ता च and husband, आहवे in battle, पराक्रान्तः a powerful, शूरः hero, पञ्चत्वम् death, आगतः reached.

M N Dutt

You are my friend, my dear husband and a great hero-and you had met with destruction, being struck by another man.

Summary

'He was my husband, my friend and naturally my loving king. He was powerful in battle.Alas the hero has died.

पदच्छेदः

सुहृच्सुहृद् (१.१)
चैव (अव्ययः)–एव (अव्ययः)
हिहि (अव्ययः)
भर्ताभर्तृ (१.१)
(अव्ययः)
प्रकृत्याप्रकृति (३.१)
(अव्ययः)
मममद् (६.१)
प्रियःप्रिय (१.१)
आहवेआहव (७.१)
(अव्ययः)
पराक्रान्तःपराक्रान्त (√परा-क्रम् + क्त, १.१)
शूरःशूर (१.१)
पञ्चत्वम्पञ्चत्व (२.१)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु हृ च्चैहि र्ता
प्र कृ त्याप्रि यः
वे रा क्रा न्तः
शू रः ञ्चत्व मा तः