४.२३.१९

पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ।
ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ॥

अन्वयः

तस्य from his, व्रणेभ्यः wound, क्षतजधाराः streams of blood, धराधरात् from a mountain, ताम्रगैरिकसम्पृक्ताः red mixed with copper, धाराः इव like the streams, सर्वशः all over, पेतुः flowed.

M N Dutt

And there poured forth from all his wounds, streams of blood, like to showers of melted copper and other metals falling from a mountain.

Summary

The streams of blood that flowed all over from the wounds of his body appeared like streams of water mixed with red and copper colour.

पदच्छेदः

पेतुःपेतुः (√पत् लिट् प्र.पु. बहु.)
क्षतजधारास्क्षतज–धारा (१.३)
तुतु (अव्ययः)
व्रणेभ्यस्व्रण (५.३)
तस्यतद् (६.१)
सर्वशःसर्वशस् (अव्ययः)
ताम्रगैरिकसंपृक्ताताम्र–गैरिक–संपृक्त (√सम्-पृच् + क्त, १.३)
धाराधारा (१.३)
इवइव (अव्ययः)
धराधरात्धराधर (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पे तुःक्ष धा रास्तु
व्र णे भ्य स्तस्यर्व शः
ताम्र गैरि सं पृ क्ता
धा रा रा रात्