४.२३.२२

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।
संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ॥

अन्वयः

पुत्र Son, पितुः of father, सुदारुणाम् most terrific, पश्चिमां at the end, अवस्थाम् condition, पश्य see, पापकर्मणा on account of the sinful deeds, सम्प्रसक्तस्य that which was forced on him, वैरस्य out of the enmity, अन्तः end, गतः reached.

M N Dutt

Behold this terrible declining stage of your Sire. Here is the end of his hostilities collected by his impious action.

Summary

'O son you see the most terrific end of your father on whom enmity forced sinful deeds.

पदच्छेदः

अवस्थांअवस्था (२.१)
पश्चिमांपश्चिम (२.१)
पश्यपश्य (√पश् लोट् म.पु. )
पितुःपितृ (६.१)
पुत्रपुत्र (८.१)
सुदारुणाम्सु (अव्ययः)–दारुण (२.१)
सम्प्रसक्तस्यसम्प्रसक्त (√सम्प्र-सञ्ज् + क्त, ६.१)
वैरस्यवैर (६.१)
गतोगत (√गम् + क्त, १.१)
ऽन्तःअन्त (१.१)
पापकर्मणापाप–कर्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्थांश्चि मांश्य
पि तुः पुत्रसु दारु णाम्
संप्र क्तस्य वैस्य
तो ऽन्तः पार्म णा