४.२४.३१

अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः ।
तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः ॥

अन्वयः

ततः then, सर्वे all, वाहनोचिताः the carriers of the palanquin, स्कन्धात् from their shoulders, शिबिकाम् palanquin, अवरोप्य brought down, शोकसमन्विताः filled with sorrow, एकान्तम् solitary place, आश्रित्य resorting to, तस्थुः stood.

Summary

Putting down the palanquin from their shoulders on the lonely spot, the bearers stood in tearswaiting.

पदच्छेदः

अवरोप्यअवरोप्य (√अव-रोपय् + ल्यप्)
ततःततस् (अव्ययः)
स्कन्धाच्स्कन्ध (५.१)
छिबिकांशिबिका (२.१)
वहनोचिताःवहन–उचित (१.३)
तस्थुर्तस्थुः (√स्था लिट् प्र.पु. बहु.)
एकान्तम्एकान्त (२.१)
आश्रित्यआश्रित्य (√आ-श्रि + ल्यप्)
सर्वेसर्व (१.३)
शोकसमन्विताःशोक–समन्वित (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रोप्य तः स्क न्धा
च्छिबि कां नोचि ताः
स्थु रे कान्त मा श्रित्य
र्वे शोन्वि ताः