४.२४.३६

तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः ।
इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम् ॥

अन्वयः

प्लवगेश्वरम् lord of monkeys, इमाः these, चन्द्रनिभाननाः moonfaced women, भार्याः wives, तव you, इष्टाः ननु your favourite ones indeed, इदानीम् now, सुग्रीवम् Sugriva, कस्मात् why, न वेक्षसे not seeing.

M N Dutt

Those your wives, having moon-like countenances, have always your welfare in view. Why did you not, O best of monkeys, cast your looks towards them and Sugrīva?

Summary

'O lord of monkeys these moonfaced wives were indeed once your favourites. Why don't you look at them? Why don't you look Sugriva?

पदच्छेदः

तवेष्टात्वद् (६.१)–इष्ट (√इष् + क्त, २.३)
ननुननु (अव्ययः)
नामैतानामन्–एतद् (२.३)
भार्याश्भार्या (२.३)
चन्द्रनिभाननाःचन्द्र–निभ–आनन (२.३)
इदानींइदानीम् (अव्ययः)
नेक्षसे (अव्ययः)–ईक्षसे (√ईक्ष् लट् म.पु. )
कस्मात् (५.१)
सुग्रीवंसुग्रीव (२.१)
प्लवगेश्वरम्प्लवग–ईश्वर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वे ष्टानु ना मै ता
भा र्या श्चन्द्रनि भा नाः
दा नीं नेक्ष से स्मा
त्सु ग्री वंप्ल गेश्व रम्