४.२५.१९

सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् ।
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥

अन्वयः

वीर्यवान् mighty, महाबलः powerful, सुग्रीवः Sugriva, सर्वाः all, प्रकृतीः subjects, उत्थाप्य having lifted them up, सम्भाष्य addressed, भ्रातुः brother's, सौम्यम् gentle, अन्तःपुरम् inner chambers, प्रविवेश entered.

M N Dutt

Welcoming the subjects and raising them up; the highly powerful Sugrīva entered the pleasant inner apartment of his brother.

Summary

Asking the monkeys to rise to their feet, the mighty and powerful Sugriva entered the inner chambers of his brother.

पदच्छेदः

सुग्रीवःसुग्रीव (१.१)
प्रकृतीःप्रकृति (२.३)
सर्वाःसर्व (२.३)
सम्भाष्योत्थाप्यसम्भाष्य (√सम्-भाष् + ल्यप्)–उत्थाप्य (√उत्-स्थापय् + ल्यप्)
वीर्यवान्वीर्यवत् (१.१)
भ्रातुर्भ्रातृ (६.१)
अन्तःपुरंअन्तःपुर (२.१)
सौम्यंसौम्य (२.१)
प्रविवेशप्रविवेश (√प्र-विश् लिट् प्र.पु. एक.)
महाबलःमहत्–बल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु ग्री वःप्रकृ तीः र्वाः
सं भा ष्यो त्थाप्य वीर्य वान्
भ्रातु न्तःपु रं सौ म्यं
प्रवि वे हा लः