४.२६.६

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे ।
वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ।
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् ॥

अन्वयः

सुसुखे in comfort, बहुद्रव्ये richly endowed, तस्मिन् in that, धरणीधरे on that mountain, वसतः while residing, तस्य रामस्य for that Rama's, अल्पापि even a little, रतिः pleasure, नाभवत् was not experienced.

M N Dutt

He did not attain to a best felicity although he lived in that pleasant hill filled with many things.

Summary

Though Rama was residing in comfort on the mountain richly endowed with many pleasant things, he experienced little happiness.

पदच्छेदः

सुसुखेसु (अव्ययः)–सुख (७.१)
ऽपिअपि (अव्ययः)
बहुद्रव्येबहु–द्रव्य (७.१)
तस्मिन्तद् (७.१)
हिहि (अव्ययः)
धरणीधरेधरणीधर (७.१)
वसतस्वसत् (√वस् + शतृ, ६.१)
तस्यतद् (६.१)
रामस्यराम (६.१)
रतिर्रति (१.१)
अल्पापिअल्प (१.१)–अपि (अव्ययः)
नाभवत् (अव्ययः)–अभवत् (√भू लङ् प्र.पु. एक.)
हृतांहृत (√हृ + क्त, २.१)
हिहि (अव्ययः)
भार्यांभार्या (२.१)
स्मरतःस्मरत् (√स्मृ + शतृ, ६.१)
प्राणेभ्योप्राण (५.३)
ऽपिअपि (अव्ययः)
गरीयसीम्गरीयस् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
सुसु खेऽपि हु द्र व्ये स्मिन्हि
णी रे स्तस्य रास्य
ति ल्पापि ना वत्हृ तांहि भा
र्यांस्म तः प्रा णे भ्योऽपि री सीम्