४.२७.२

अयं स कालः संप्राप्तः समयोऽद्य जलागमः ।
संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः ॥

अन्वयः

सः अयम् this, कालः time, सम्प्राप्तः started, अद्य now, जलागमः समयः time of rainy season, गिरिसन्निभैः like mountains, मेघैः by clouds, संवृतम् covered, नभः sky, त्वम् you, सम्पश्य see.

M N Dutt

This is the time the beginning of the rainy season-do you behold the sky enveloped with clouds resembling so many hills.

Summary

'Now that the rainy season has started, see the sky covered with mountainlike (huge) clouds.

पदच्छेदः

अयंइदम् (१.१)
तद् (१.१)
कालःकाल (१.१)
सम्प्राप्तःसम्प्राप्त (√सम्प्र-आप् + क्त, १.१)
समयोसमय (१.१)
ऽद्यअद्य (अव्ययः)
जलागमःजलागम (१.१)
संपश्यसंपश्य (√सम्-पश् लोट् म.पु. )
त्वंत्वद् (१.१)
नभोनभस् (२.१)
मेघैःमेघ (३.३)
संवृतंसंवृत (√सम्-वृ + क्त, २.१)
गिरिसंनिभैःगिरि–संनिभ (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यं का लः सं प्रा प्तः
योऽद्य ला मः
सं श्य त्वं भो मे घैः
संवृ तंगिरि संनि भैः