४.२७.४२

स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम् ।
उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः ॥

अन्वयः

सुग्रीवः Sugriva, विश्रम्य after resting, कालम् time, उपागतम् has come, ज्ञात्वा after knowing, उपकारं च help also, स्वयमेव himself, वेत्स्यते will know, हि indeed, अत्र about that, संशयः doubt, न no.

M N Dutt

Forsooth, shall Sugrīva think of the benefits (he has received from me) after enjoying rest for sometime, when the time for action shall arrive.

पदच्छेदः

स्वयम्स्वयम् (अव्ययः)
एवएव (अव्ययः)
हिहि (अव्ययः)
विश्रम्यविश्रम्य (√वि-श्रम् + ल्यप्)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
कालम्काल (२.१)
उपागतम्उपागत (√उपा-गम् + क्त, २.१)
उपकारंउपकार (२.१)
(अव्ययः)
सुग्रीवोसुग्रीव (१.१)
वेत्स्यतेवेत्स्यते (√विद् लृट् प्र.पु. एक.)
नात्र (अव्ययः)–अत्र (अव्ययः)
संशयःसंशय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्व मेहि वि श्रम्य
ज्ञा त्वा कामु पा तम्
का रं सु ग्री वो
वेत्स्य ते नात्र सं यः