४.२८.१०

यो हि मित्रेषु कालज्ञः सततं साधु वर्तते ।
तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते ॥

अन्वयः

यो हि he who, कालज्ञः knows the value of time, सततम् always, मित्रेषु towards friends, साधु well, वर्तते conducts, तस्य his, राज्यं च kingdom and, कीर्तिश्च fame, प्रतापश्च glory, वर्धते will increase.

M N Dutt

Truly does his kingdom, fame and prowess increase who is cognizant of the seasonableness of time and does good to his friends.

Summary

'The kingdom, glory and fame of a king who knows the value of time and conducts himself well towards his allies always grows.

पदच्छेदः

योयद् (१.१)
हिहि (अव्ययः)
मित्रेषुमित्र (७.३)
कालज्ञःकाल–ज्ञ (१.१)
सततंसततम् (अव्ययः)
साधुसाधु (२.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
तस्यतद् (६.१)
राज्यंराज्य (१.१)
(अव्ययः)
कीर्तिश्कीर्ति (१.१)
(अव्ययः)
प्रतापश्प्रताप (१.१)
चाभिवर्धते (अव्ययः)–अभिवर्धते (√अभि-वृध् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

योहि मि त्रेषु का ज्ञः
तं साधुर्त ते
स्य रा ज्यं की र्तिश्च
प्र ता श्चाभिर्ध ते