४.२९.१

गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥

पदच्छेदः

गुहांगुहा (२.१)
प्रविष्टेप्रविष्ट (√प्र-विश् + क्त, ७.१)
सुग्रीवेसुग्रीव (७.१)
विमुक्तेविमुक्त (√वि-मुच् + क्त, ७.१)
गगनेगगन (७.१)
घनैःघन (३.३)
वर्षरात्रोषितोवर्ष–रात्र–उषित (√वस् + क्त, १.१)
रामःराम (१.१)
कामशोकाभिपीडितःकाम–शोक–अभिपीडित (√अभि-पीडय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गु हांप्र वि ष्टे सु ग्री वे
वि मु क्ते ने नैः
र्ष रा त्रोषि तो रा मः
का शो काभि पीडि तः