४.२९.२

पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम् ।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥

पदच्छेदः

पाण्डुरंपाण्डुर (२.१)
गगनंगगन (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
विमलंविमल (२.१)
चन्द्रमण्डलम्चन्द्र–मण्डल (२.१)
शारदींशारद (२.१)
रजनींरजनी (२.१)
चैव (अव्ययः)–एव (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
ज्योत्स्नानुलेपनाम्ज्योत्स्ना–अनुलेपन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पाण्डु रं नं दृ ष्ट्वा
वि लंन्द्रण्ड लम्
शा दीं नीं चै
दृ ष्ट्वा ज्यो त्स्नानु ले नाम्