४.२९.३

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥

पदच्छेदः

कामवृत्तंकाम–वृत्त (√वृत् + क्त, २.१)
(अव्ययः)
सुग्रीवंसुग्रीव (२.१)
नष्टांनष्ट (√नश् + क्त, २.१)
(अव्ययः)
जनकात्मजाम्जनकात्मजा (२.१)
बुद्ध्वाबुद्ध्वा (√बुध् + क्त्वा)
कालम्काल (२.१)
अतीतंअतीत (√अति-इ + क्त, २.१)
(अव्ययः)
मुमोहमुमोह (√मुह् लिट् प्र.पु. एक.)
परमातुरःपरम–आतुर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का वृ त्तं सु ग्री वं
ष्टां कात्म जाम्
बु द्ध्वा का ती तं
मु मो मातु रः