४.३.१३

उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।
ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥

अन्वयः

उभौ both, अहम् I, इमाम् this, ससागरवनाम् with seas and forests, विन्ध्यमेरुविभूषिताम् adorned with mountains of Vindhya and Meru, कृत्स्नाम् entire, पृथिवीम् earth, रक्षितुम् to rule, योग्यौ fit, मन्ये I think

Summary

'To me, you both deserve to rule the entire earth encompassed by seas and forests and adorned with mountains like Vindhya and Meru.

पदच्छेदः

उभौउभ् (२.२)
योग्याव्योग्य (२.२)
अहंमद् (१.१)
मन्येमन्ये (√मन् लट् उ.पु. )
रक्षितुंरक्षितुम् (√रक्ष् + तुमुन्)
पृथिवीम्पृथिवी (२.१)
इमाम्इदम् (२.१)
ससागरवनां (अव्ययः)–सागर–वन (२.१)
कृत्स्नांकृत्स्न (२.१)
विन्ध्यमेरुविभूषिताम्विन्ध्य–मेरु–विभूषित (√वि-भूषय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भौ यो ग्या हं न्ये
क्षि तुंपृथि वीमि माम्
सा नां कृ त्स्नां
विन्ध्य मेरुवि भूषि ताम्