४.३०.६

न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।
पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥

अन्वयः

त्वद्विधः a man like you, लोके in the world, एवम् in this way, पापम् sin, न समाचरेत् not commit, यः whoever, आर्येण of noble attitude, (कोपम् anger), हन्ति kills, सः वीरः such a hero, पुरुषोत्तमः best of men

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
वैवै (अव्ययः)
त्वद्विधोत्वद्विध (१.१)
लोकेलोक (७.१)
पापम्पाप (२.१)
एवंएवम् (अव्ययः)
समाचरेत्समाचरेत् (√समा-चर् विधिलिङ् प्र.पु. एक.)
पापम्पाप (२.१)
आर्येणआर्य (३.१)
योयद् (१.१)
हन्तिहन्ति (√हन् लट् प्र.पु. एक.)
तद् (१.१)
वीरःवीर (१.१)
पुरुषोत्तमःपुरुष–उत्तम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि वै त्वद्वि धो लो के
पा मे वं मा रेत्
पा मा र्ये योन्ति
वी रःपुरु षोत्त मः