४.३१.२०

न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत् ।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥

अन्वयः

पूर्वोपकारम् having received help earlier, स्मरता remembering, विशेषतः more so, कृतज्ञेन by a grateful man, यः whoever, पुनः again, प्रसाद्यः deserves to be propitiated, सः he, कोपयितुम् to show anger, न क्षमः not proper.

M N Dutt

Remembering his former service, it does not behove you, grateful as you are, to excite his wrath, who should be pleased again.

Summary

'He who deserves propitiation, should not be offended, more so by a grateful man, remembering the help received by him earlier.

पदच्छेदः

(अव्ययः)
तद् (१.१)
क्षमःक्षम (१.१)
कोपयितुंकोपयितुम् (√कोपय् + तुमुन्)
यःयद् (१.१)
प्रसाद्यप्रसाद्य (√प्र-सादय् + ल्यप्)
पुनर्पुनर् (अव्ययः)
भवेत्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
पूर्वोपकारंपूर्व–उपकार (२.१)
स्मरतास्मरत् (√स्मृ + शतृ, ३.१)
कृतज्ञेनकृतज्ञ (३.१)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष मः कोयि तुं
यःप्र साद्यपुर्भ वेत्
पू र्वो का रंस्म ता
कृ ज्ञेवि शे तः