४.३४.२

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः ॥

अन्वयः

लक्ष्मण Lakshmana, अयम् this, हरीणामीश्वरः king of vanaras, एवम् in that way, न वक्तव्यः not speak, विशेषतः specially, तव your, वक्त्रात् your words, परुषम् harsh, श्रोतुम् to listen, नार्हति not deserve.

M N Dutt

O Lakşmaņa, you ought not to speak thus: and this lord of monkeys does not deserve to hear this harsh speech from your lips, in especial.

Summary

'O Lakshmana you, in particular, should not speak to the king of vanaras in that manner. He does not deserve to hear from your mouth words which are harsh.

पदच्छेदः

नैवं (अव्ययः)–एवम् (अव्ययः)
लक्ष्मणलक्ष्मण (८.१)
वक्तव्योवक्तव्य (√वच् + कृत्, १.१)
नायं (अव्ययः)–इदम् (१.१)
परुषम्परुष (२.१)
अर्हतिअर्हति (√अर्ह् लट् प्र.पु. एक.)
हरीणाम्हरि (६.३)
ईश्वरःईश्वर (१.१)
श्रोतुंश्रोतुम् (√श्रु + तुमुन्)
तवत्वद् (६.१)
वक्त्राद्वक्त्र (५.१)
विशेषतःविशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नै वंक्ष्म क्त व्यो
ना यंरुर्हति
री णा मीश्व रः श्रो तुं
क्त्राद्वि शे तः