४.३५.३

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत् ।
चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः ॥

अन्वयः

ततः then, वानरेश्वरः lord of vanaras, सुग्रीवः Sugriva, कण्ठगतम् worn on the neck, चित्रम् colourful, बहुगुणम् valuable, महत् great, माल्यम् garland, चिच्छेद tore off, विमदश्च relieved (from drunkenness), आसीत् got free.

M N Dutt

Then Sugriva-lord of monkeys-tore away the gaudy and variegated garland on his neck-potent with many a virtue, and become deprived of energy.

Summary

Thereupon Sugriva, relieved from his drunken state tore off the great, colourful valuable garland worn on his neck.

पदच्छेदः

ततःततस् (अव्ययः)
कण्ठगतंकण्ठ–गत (√गम् + क्त, २.१)
माल्यंमाल्य (२.१)
चित्रंचित्र (२.१)
बहुगुणंबहु–गुण (२.१)
महत्महत् (२.१)
चिछेदचिछेद (√छिद् लिट् प्र.पु. एक.)
विमदश्विमद (१.१)
चासीत् (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
सुग्रीवोसुग्रीव (१.१)
वानरेश्वरःवानर–ईश्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःण्ठ तं मा ल्यं
चि त्रंहुगु णं हत्
चि च्छेवि श्चा सी
त्सु ग्री वो वा रेश्व रः