४.३६.२०

ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ।
तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ॥

अन्वयः

ततः then, तस्मात् गिरेः from that mountain, प्लवङ्गनाम् of monkeys, महाजवाः swift moving, अञ्जनसङ्काशाः who were like collyrium, तिस्रः three, कोट्यः crores, राघवः Rama, यत्र wherever, निर्ययुः rushed forth.

M N Dutt

And monkeys resembling collyrium (in hue), numbering three kotis, endued with huge might, set out from the Añjana hill for the place where Rāghava was.

Summary

Then three crores of swiftfooted monkeys, dark like collyrium, rushed forth to the mountain to meet Rama.

पदच्छेदः

ततस्ततस् (अव्ययः)
तेतद् (१.३)
ऽञ्जनसंकाशाअञ्जन–संकाश (१.३)
गिरेस्गिरि (५.१)
तस्मान्तद् (५.१)
महाजवाःमहत्–जव (१.३)
तिस्रःत्रि (१.३)
कोट्यःकोटि (१.३)
प्लवंगानांप्लवंग (६.३)
निर्ययुर्निर्ययुः (√निः-या लिट् प्र.पु. बहु.)
यत्रयत्र (अव्ययः)
राघवःराघव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तेऽञ्ज सं का शा
गि रे स्त स्मान्म हा वाः
ति स्रः को ट्यःप्ल वं गा नां
निर्य यु र्यत्र रा वः