४.३७.२१

हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥

अन्वयः

यः whoever, धर्मम् one's duty, तथा so also, अर्थं च pursuit of wealth also, हित्वा after giving up, कामम् desire, निषेवत् attends, सः he, वृक्षाग्रे on the tree top, सुप्तः इव as one lying, पतितः fallen down, प्रतिबुध्यते gets awakened.

Summary

'One who neglects dharma and artha and pursues only kama (sensuous enjoyment) is like a man asleep on top of the tree, waking up only to realize that he has fallen down.

पदच्छेदः

हित्वाहित्वा (√हा + क्त्वा)
धर्मंधर्म (२.१)
तथार्थंतथा (अव्ययः)–अर्थ (२.१)
(अव्ययः)
कामंकाम (२.१)
यस्यद् (१.१)
तुतु (अव्ययः)
निषेवतेनिषेवते (√नि-सेव् लट् प्र.पु. एक.)
तद् (१.१)
वृक्षाग्रेवृक्ष–अग्र (७.१)
यथायथा (अव्ययः)
सुप्तःसुप्त (√स्वप् + क्त, १.१)
पतितःपतित (√पत् + क्त, १.१)
प्रतिबुध्यतेप्रतिबुध्यते (√प्रति-बुध् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि त्वा र्मं था र्थं
का मंस्तुनि षे ते
वृ क्षा ग्रे था सु प्तः
ति तःप्रति बुध्य ते