४.३७.९

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ।
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम् ॥

अन्वयः

शीघ्रविक्रमाः those who were quick to act, हरयः monkeys, तस्य his, वचनम् words, श्रुत्वा after hearing, प्रियदर्शनाम् pleasing to see, शिबिकाम् palanquin, समुपस्थापयामासुः placed in front of him.

M N Dutt

Hearing his words, monkeys uniting vigour with celerity, brought a car lovely to behold.

Summary

On hearing the king, the monkeys who were quick to act placed a beautiful palanquin in front of him.

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
वचनंवचन (२.१)
तस्यतद् (६.१)
हरयःहरि (१.३)
शीघ्रविक्रमाःशीघ्र–विक्रम (१.३)
समुपस्थापयामासुःसमुपस्थापयामासुः (√समुप-स्थापय् प्र.पु. बहु.)
शिबिकांशिबिका (२.१)
प्रियदर्शनाम्प्रिय–दर्शन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातु नंस्य
यः शीघ्र विक्र माः
मु स्था या मा सुः
शिबि कांप्रिर्श नाम्