४.३९.४३

तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ।
अस्याहुस्तन्महावेगमोदनं सचराचरम् ॥

अन्वयः

तत्र there, तत्कोपजम् born out of his anger, महत् great, हयमुखम् face of horse, तेजः bright, कृतम् is created, सचराचरम् both movable and immovable creatures, महावेगम् very fast, तत् that, अस्य its, ओदनम् food, आहुः they said.

Summary

'Here is born Hayamukha, out of the fastspreading fire of anger of the ocean. Its movable and immovable creatures constitute his food.

पदच्छेदः

तत्रतत्र (अव्ययः)
तत्तद् (१.१)
कोपजंकोप–ज (१.१)
तेजःतेजस् (१.१)
कृतंकृत (√कृ + क्त, १.१)
हयमुखंहयमुख (१.१)
महत्महत् (१.१)
अस्याहुस्इदम् (६.१)–आहुः (√अह् लिट् प्र.पु. बहु.)
तन्तद् (२.१)
महावेगम्महत्–वेग (२.१)
ओदनंओदन (२.१)
सचराचरम्सचराचर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र त्को जं ते जः
कृ तंमु खं हत्
स्या हु स्तन्म हा वे
मो नं रा रम्